КШ · Tantrasāra · Словарь терминов · Поиск по сайту · Эта часть у источника
← Глава 8 — Tattvasvarūpaprakāśanam · Глава 10 — Kalādyadhvaprakāśanam →
तन्त्रसारः
Tantrasāraḥ
नवममाह्निकम्
Navamamāhnikam
अथ तत्त्वानां भेदो निरूप्यते।
Atha tattvānāṁ bhedo nirūpyate|
स च सप्तधा षडर्धशास्त्र एव परं परमेशेनोक्तः। तत्र शिवा मन्त्रमहेशा मन्त्रेशा मन्त्रा विज्ञानाकलाः प्रलयाकलाः सकला इति सप्त शक्तिमन्तः। एषां सप्तैव शक्तयस्तद्भेदात्पृथिव्यादिप्रधानतत्त्वान्तं चतुर्दशभिर्भेदैः प्रत्येकं स्वं रूपं पञ्चदशम्। तत्र स्वं रूपं प्रमेयतायोग्यं स्वात्मनिष्ठम् - अपराभट्टारिकानुग्रहात्प्रमातृष्वुद्रिक्तशक्तिषु यद् विश्रान्तिभाजनं तत् तस्यैव शाक्तं रूपं श्रीमत्परापरानुग्रहात्तच्च सप्तविधं शक्तीनां तावत्त्वात्। शक्तिमद्रूपप्रधाने तु प्रमातृवर्गे यद् विश्रान्तं तच्छक्तिमच्छिवरूपं श्रीमत्पराभट्टारिकानुग्रहात्तदपि सप्तविधम् - प्रमातॄणां शिवात्प्रभृति सकलान्तानां तावतामुक्तत्वात्। तत्र शक्तिभेदादेव प्रमातॄणां भेदः स च स्फुटीकरणार्थं सकलादिक्रमेण भण्यते तत्र सकलस्य विद्याकले शक्तिस्तद्विशेषरूपत्वाद्बुद्धिकर्माक्षशक्तीनां प्रलयाकलस्य तु त एव निर्विषयत्वादस्फुटे। विज्ञानाकलस्य त एव विगलत्कल्पे तत्संस्कारसचिवा प्रबुद्ध्यमाना शुद्धविद्या मन्त्रस्य। तत्संस्कारहीना सैव प्रबुद्धा मन्त्रेशस्य। सैवेच्छाशक्तिरूपतां स्वातन्त्र्यस्वभावां जिघृक्षन्ती मन्त्रमहेश्वरस्य। इच्छात्मिका स्फुटस्वातन्त्र्यात्मिका शिवस्येति शक्तिभेदाः सप्त मुख्याः। तदुपरागकृतश्च शक्तिमत्सु प्रमातृषु भेदः - करणभेदस्य कर्तृभेदपर्यवसानाच्छक्तेरेव चाव्यतिरिक्तायाः करणीकर्तुं शक्यत्वान्नान्यस्य - अनवस्थाद्यापत्तेः। वस्तुतः पुनरेक एव चित्स्वातन्त्र्यानन्दविश्रान्तः प्रमाता तत्र पृथिवी स्वरूपमात्रविश्रान्ता यदा वेद्यते तदा स्वरूपमस्याः केवलं भाति चैत्रचक्षुर्दृष्टं चैत्रविदितं जानामीति तत्र सकलशक्तिकृतं सकलशक्तिमद्रूपकृतं स्वरूपान्तरं भात्येवैवं शिवान्तमपि वाच्यं शिवशक्तिनिष्ठं शिवस्वभावविश्रान्तं च विश्वं जानामीति प्रत्ययस्य विलक्षणस्य भावात्। ननु भावस्य चेद्वेद्यता स्वं वपुस्तत्सर्वान् प्रति वेद्यत्वं वेद्यत्वमपि वेद्यमित्यनवस्था तया च जगतोऽन्धसुप्तत्वं सुप्रकाशमेव तया च वेद्यत्वावेद्यत्वे विरुद्धधर्मयोग इति दोषोऽत्रोच्यते - न तत्स्वं वपुः स्वरूपस्य पृथगुक्तत्वात्किं तर्हि तत् प्रमातृशक्तौ प्रमातरि च यद् विश्रान्तिभाजनं यद् रूपं तत् खलु तत्तत् स्वप्रकाशमेव तत् प्रकाशते न तु किञ्चिदपि प्रति इति सर्वज्ञत्वमनवस्था विरुद्धधर्मयोगश्चेति दूरापास्तम्। अनन्तप्रमातृसंवेद्यमप्येकमेव तत्तस्य रूपं तावति तेषामेकाभासरूपत्वादिति न प्रमात्रन्तरसंवेदनानुमानविघ्नः कश्चित्तच्च तस्य रूपं सत्यमर्थक्रियाकारित्वात्तथैव परदृश्यमानां कान्तां दृष्ट्वा तस्यै समीर्ष्यति शिवस्वभावं विश्रान्तिकुम्भं पश्यन्समाविशति समस्तानन्तप्रमातृविश्रान्तं वस्तु पश्यन्पूर्णीभवति नर्तकीप्रेक्षणवत्तस्यैव नीलस्य तद्रूपं प्रमातरि यद् विश्रान्तं तथैव स्वप्रकाशस्य विमर्शस्योदयात् - इति पञ्चदशात्मकत्वं पृथिव्याः प्रभृति प्रधानतत्त्वपर्यन्तम्। तावत्युद्रिक्तरागादिकञ्चुकस्य सकलस्य प्रमातृत्वात्सकलस्याप्येवं पाञ्चदश्यं तस्यापि तावद्वेद्यत्वात्। वितत्य चैतन् निर्णीतं तन्त्रालोके। पुंसः प्रभृति कलातत्त्वान्तं त्रयोदशधा - सकलस्य तत्र प्रमातृतायोगेन तच्छक्तिशक्तिमदात्मनो भेदद्वयस्य प्रत्यस्तमयात्तथा च सकलस्य स्वरूपत्वमेव केवलं प्रलयाकलस्य स्वरूपत्वे पञ्चानां प्रमातृत्व एकादश भेदाः। विज्ञानाकलस्य स्वरूपत्वे चतुर्णां प्रमातृत्वे नव भेदाः। मन्त्रस्य स्वरूपत्वे त्रयाणां प्रमातृत्वे सप्त। मन्त्रेशस्य स्वरूपत्वे द्वयोः प्रमातृत्वे पञ्च। मन्त्रमहेशस्य स्वरूपत्वे भगवत एकस्यैव प्रमातृत्वे शक्तिशक्तिमद्भेदात्त्रयः। शिवस्य तु प्रकाशैकचित्स्वातन्त्र्यनिर्भरस्य न कोऽपि भेदः परिपूर्णत्वात्। एवमयं तत्त्वभेद एव परमेश्वरानुत्तरनयैकाख्ये निरूपितो भुवनभेदवैचित्र्यं करोति नरकस्वर्गरुद्रभुवनानां पार्थिवत्वे समानेऽपि दूरतरस्य स्वभावभेदस्योक्तत्वात्। अत्र च परस्परं भेदकलनया अवान्तरभेदज्ञानकुतूहली तन्त्रालोकमेवावधारयेत्। एवमेकैकघटाद्यनुसारेणापि पृथिव्यादीनां तत्त्वानां भेदो निरूपितः। अधुना समस्तं पृथिवीतत्त्वं प्रमातृप्रमेयरूपमुद्दिश्य निरूप्यते - यो धरातत्त्वाभेदेन प्रकाशः स शिवः। यथा श्रुतिः पृथिव्येवेदं ब्रह्मेति। धरातत्त्वसिद्धिप्रदान्प्रेरयति स धरामन्त्रमहेश्वरः प्रेर्यो धरामन्त्रेशस्तस्यैवाभिमानिकविग्रहतात्मको वाचको मन्त्रः साङ्ख्यादिपाशवविद्योत्तीर्णशिवविद्याक्रमेणाभ्यस्तपार्थिवयोगोऽप्राप्तध्रुवपदो धराविज्ञानाकलः। पाशवविद्याक्रमेणाभ्यस्तपार्थिवयोगः कल्पान्ते मरणे वा धराप्रलयकेवलः। सौषुप्ते हि तत्त्वावेशवशादेव चित्रस्य स्वप्नस्योदयः स्याद्गृहीतधराभिमानस्तु धरासकलः। अत्रापि शक्त्युद्रेकन्यग्भावाभ्यां चतुर्दशत्वमिति प्रमातृतापन्नस्य धरातत्त्वस्य भेदाः स्वरूपं तु शुद्धं प्रमेयमित्येवमपरत्रापि। अथैकस्मिन्प्रमातरि प्राणप्रतिष्ठिततया भेदनिरूपणम् - इह नीलं गृह्णतः प्राणस्तुटिषोडशकात्मा वेद्यावेशपर्यन्तमुदेति तत्राद्या तुटिरविभागैकरूपा द्वितीया ग्राहकोल्लासरूपा अन्त्या तु ग्राह्याभिन्ना तन्मय्युपान्त्या तु स्फुटीभूतग्राहकरूपा मध्ये तु यत् तुटिद्वादशकं तन्मध्यादाद्यं षट्कं निर्विकल्पस्वभावं विकल्पाच्छादकं षट्त्वं चास्य स्वरूपेणैका तुटिराच्छादनीये च विकल्पे पञ्चरूपत्वमुन्मिमिषा उन्मिषत्ता सा चेयं स्फुटक्रियारूपत्वात्तुटिद्वयात्मिका - स्पन्दनस्यैकक्षणरूपत्वाभावादुन्मिषितता स्वकार्यकर्तृत्वं चेत्येवमाच्छादनीयविकल्पपाञ्चविध्यात्स्वरूपाच्च षट् क्षणा निर्विकल्पकास्ततोऽपि निर्विकल्पस्य ध्वंसमानता ध्वंसो विकल्पस्योन्मिमिषा उन्मिषत्ता तुटिद्वयात्मिकोन्मिषितता चेति षट् तुटयः। स्वकार्यकर्तृता तु ग्राहकरूपतेत्युक्तं न सा भूयो गण्यत इत्येवं विवेकधना गुरूपदेशानुशीलिनः सर्वत्र पाञ्चदश्यं प्रविभागेन विविञ्चते। विकल्पन्यूनत्वे तु तुटिन्यूनता सुखादिसंवित्ताविव यावदविकल्पतैव। लोकास्तु विकल्पविश्रान्त्या तामहन्तामयीमहन्ताच्छादितेदम्भावविकल्पप्रसरां निर्विकल्पां विमर्शभुवमप्रकाशितामिव मन्यन्ते - दुःखावस्थां सुखविश्रान्ता इव विकल्पनिर्ह्रासेन तु सा प्रकाशत एवेतीयमसौ सम्बन्धे ग्राह्यग्राहकयोः सावधानता इत्यभिनवगुप्तगुरवः। एवं च पाञ्चदश्ये स्थिते यावत्स्फुटेदन्तात्मनो भेदस्य न्यूनता तावद्द्वयं द्वयं ह्रसति यावद्द्वितुटिकः शिवावेशस्तत्राद्या तुटिः सर्वतः पूर्णा द्वितीया सर्वज्ञानकरणाविष्टाभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृत्वाय कल्पते न त्वाद्या। यदाह श्रीकल्लटस्तुटिपात इत्यत्र पातशब्दं सैव भगवती श्रीमत्काली मातृसद्भावो भैरवः प्रतिभेत्यलं रहस्यारहस्यनेन। एवं मन्त्रमहेशतुटेः प्रभृति तत्तदभ्यासात्तत्तत्सिद्धिः। अथात्रैव जाग्रदाद्यवस्था निरूप्यन्ते - तत्र वेद्यस्य तद्विषयायाश्च संविदो यद् वैचित्र्यमन्योन्यापेक्षं सत्सावस्था न वेद्यस्य केवलस्य न चापि केवलायाः संविदो न चापि पृथक्पृथक् द्वे। तत्र यदाधिष्ठेयतया बहीरूपतया भानं तदा जाग्रदवस्था मेये मातरि माने च। यदा तु तत्रैवाधिष्ठानरूपतया भानं सङ्कल्पस्तदा स्वप्नावस्था। यदा तु तत्रैवाधिष्ठातृरूपतया बीजात्मतयैव भानं तदा सुषुप्तावस्था। इमा एव तिस्रः प्रमेयप्रमाणप्रमात्रवस्थाः प्रत्येकं जाग्रदादिभेदाच्चतुर्विधा उक्ताः। यदा तु तस्मिन्नेव प्रमातृविश्रान्तिगते प्रमातुः पूर्णतौन्मुख्यात्तद्द्वारेण पूर्णतोन्मुखतया भानं तदा तुर्यावस्था सा च रूपं दृशाहमित्येवंविधमंशत्रयमुत्तीर्य पश्यामीत्यनुपायिका प्रमातृता स्वातन्त्र्यसारा नैकट्यमध्यत्वदूरत्वैः प्रमातृप्रमाणप्रमेयताभिषेकं ददती तदवस्थात्रयानुग्राहकत्वात्त्रिभेदा। एतदेवावस्थाचतुष्टयं पिण्डस्थपदस्थरूपस्थरूपातीतशब्दैर्योगिनो व्यवहरन्ति प्रसङ्ख्यानधनास्तु सर्वतोभद्रं व्याप्तिर्महाव्याप्तिः प्रचय इति शब्दैः। अन्वर्थं चात्र दर्शितं तन्त्रालोके श्लोकवार्त्तिके च। यच्च सर्वान्तर्भूतं पूर्णरूपं तत् तुर्यातीतं सर्वातीतं महाप्रचयं च निरूपयन्ति। किञ्च यस्य यद्यदा रूपं स्फुटं स्थिरमनुबन्धि तज् जाग्रत् तस्यैव तद्विपर्ययः स्वप्नो यो लयाकलस्य भोगः सर्वावेदनं सुषुप्तं यो विज्ञानाकलस्य भोगो भोग्याभिन्नीकरणं तुर्यं मन्त्रादीनां स भोगो भावानां शिवाभेदस्तुर्यातीतं सर्वातीतम्। तत्र स्वरूपसकलौ १ प्रलयाकलः २ विज्ञानाकलः ३ मन्त्रतदीशतन्महेशवर्गः ४ शिवः ५ इति पञ्चदशभेदे पञ्च अवस्थाः। स्वरूपं प्रलयाकल इत्यादिक्रमेण त्रयोदशभेदे स्वरूपं विज्ञानाकलशक्तिर्विज्ञानाकल इत्येकादशभेदे स्वरूपं मन्त्रास्तदीशा महेशाः शिव इति नवभेदे स्वरूपं मन्त्रेशा महेशः शक्तिः शिव इति सप्तभेदे स्वरूपं महेशशक्तिर्महेशः शक्तिः शिव इति पञ्चभेदे स्वरूपं क्रियाशक्तिर्ज्ञानशक्तिरिच्छाशक्तिः शिव इति त्रिभेदेऽभिन्नेऽपि शिवतत्त्वे क्रियाज्ञानेच्छानन्दचिद्रूपकॢप्त्या प्रसङ्ख्यानयोगधनाः पञ्चपदत्वमाहुः॥
Sa ca saptadhā ṣaḍardhaśāstra eva paraṁ parameśenoktaḥ| Tatra śivā mantramaheśā mantreśā mantrā vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ| Eṣāṁ saptaiva śaktayastadbhedātpṛthivyādipradhānatattvāntaṁ caturdaśabhirbhedaiḥ pratyekaṁ svaṁ rūpaṁ pañcadaśam| Tatra svaṁ rūpaṁ prameyatāyogyaṁ svātmaniṣṭham - Aparābhaṭṭārikānugrahātpramātṛṣvudriktaśaktiṣu yad viśrāntibhājanaṁ tat tasyaiva śāktaṁ rūpaṁ śrīmatparāparānugrahāttacca saptavidhaṁ śaktīnāṁ tāvattvāt| Śaktimadrūpapradhāne tu pramātṛvarge yad viśrāntaṁ tacchaktimacchivarūpaṁ śrīmatparābhaṭṭārikānugrahāttadapi saptavidham - Pramātṝṇāṁ śivātprabhṛti sakalāntānāṁ tāvatāmuktatvāt| Tatra śaktibhedādeva pramātṝṇāṁ bhedaḥ sa ca sphuṭīkaraṇārthaṁ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktistadviśeṣarūpatvādbuddhikarmākṣaśaktīnāṁ pralayākalasya tu ta eva nirviṣayatvādasphuṭe| Vijñānākalasya ta eva vigalatkalpe tatsaṁskārasacivā prabuddhyamānā śuddhavidyā mantrasya| Tatsaṁskārahīnā saiva prabuddhā mantreśasya| Saivecchāśaktirūpatāṁ svātantryasvabhāvāṁ jighṛkṣantī mantramaheśvarasya| Icchātmikā sphuṭasvātantryātmikā śivasyeti śaktibhedāḥ sapta mukhyāḥ| Taduparāgakṛtaśca śaktimatsu pramātṛṣu bhedaḥ - Karaṇabhedasya kartṛbhedaparyavasānācchaktereva cāvyatiriktāyāḥ karaṇīkartuṁ śakyatvānnānyasya - Anavasthādyāpatteḥ| Vastutaḥ punareka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpamasyāḥ kevalaṁ bhāti caitracakṣurdṛṣṭaṁ caitraviditaṁ jānāmīti tatra sakalaśaktikṛtaṁ sakalaśaktimadrūpakṛtaṁ svarūpāntaraṁ bhātyevaivaṁ śivāntamapi vācyaṁ śivaśaktiniṣṭhaṁ śivasvabhāvaviśrāntaṁ ca viśvaṁ jānāmīti pratyayasya vilakṣaṇasya bhāvāt| Nanu bhāvasya cedvedyatā svaṁ vapustatsarvān prati vedyatvaṁ vedyatvamapi vedyamityanavasthā tayā ca jagato'ndhasuptatvaṁ suprakāśameva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣo'trocyate - Na tatsvaṁ vapuḥ svarūpasya pṛthaguktatvātkiṁ tarhi tat pramātṛśaktau pramātari ca yad viśrāntibhājanaṁ yad rūpaṁ tat khalu tattat svaprakāśameva tat prakāśate na tu kiñcidapi prati iti sarvajñatvamanavasthā viruddhadharmayogaśceti dūrāpāstam| Anantapramātṛsaṁvedyamapyekameva tattasya rūpaṁ tāvati teṣāmekābhāsarūpatvāditi na pramātrantarasaṁvedanānumānavighnaḥ kaścittacca tasya rūpaṁ satyamarthakriyākāritvāttathaiva paradṛśyamānāṁ kāntāṁ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṁ viśrāntikumbhaṁ paśyansamāviśati samastānantapramātṛviśrāntaṁ vastu paśyanpūrṇībhavati nartakīprekṣaṇavattasyaiva nīlasya tadrūpaṁ pramātari yad viśrāntaṁ tathaiva svaprakāśasya vimarśasyodayāt - Iti pañcadaśātmakatvaṁ pṛthivyāḥ prabhṛti pradhānatattvaparyantam| Tāvatyudriktarāgādikañcukasya sakalasya pramātṛtvātsakalasyāpyevaṁ pāñcadaśyaṁ tasyāpi tāvadvedyatvāt| Vitatya caitan nirṇītaṁ tantrāloke| Puṁsaḥ prabhṛti kalātattvāntaṁ trayodaśadhā - Sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāttathā ca sakalasya svarūpatvameva kevalaṁ pralayākalasya svarūpatve pañcānāṁ pramātṛtva ekādaśa bhedāḥ| Vijñānākalasya svarūpatve caturṇāṁ pramātṛtve nava bhedāḥ| Mantrasya svarūpatve trayāṇāṁ pramātṛtve sapta| Mantreśasya svarūpatve dvayoḥ pramātṛtve pañca| Mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāttrayaḥ| Śivasya tu prakāśaikacitsvātantryanirbharasya na ko'pi bhedaḥ paripūrṇatvāt| Evamayaṁ tattvabheda eva parameśvarānuttaranayaikākhye nirūpito bhuvanabhedavaicitryaṁ karoti narakasvargarudrabhuvanānāṁ pārthivatve samāne'pi dūratarasya svabhāvabhedasyoktatvāt| Atra ca parasparaṁ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokamevāvadhārayet| Evamekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṁ tattvānāṁ bhedo nirūpitaḥ| Adhunā samastaṁ pṛthivītattvaṁ pramātṛprameyarūpamuddiśya nirūpyate - Yo dharātattvābhedena prakāśaḥ sa śivaḥ| Yathā śrutiḥ pṛthivyevedaṁ brahmeti| Dharātattvasiddhipradānprerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśastasyaivābhimānikavigrahatātmako vācako mantraḥ sāṅkhyādipāśavavidyottīrṇaśivavidyākrameṇābhyastapārthivayogo'prāptadhruvapado dharāvijñānākalaḥ| Pāśavavidyākrameṇābhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ| Sauṣupte hi tattvāveśavaśādeva citrasya svapnasyodayaḥ syādgṛhītadharābhimānastu dharāsakalaḥ| Atrāpi śaktyudrekanyagbhāvābhyāṁ caturdaśatvamiti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṁ tu śuddhaṁ prameyamityevamaparatrāpi| Athaikasminpramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam - Iha nīlaṁ gṛhṇataḥ prāṇastuṭiṣoḍaśakātmā vedyāveśaparyantamudeti tatrādyā tuṭiravibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayyupāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṁ tanmadhyādādyaṁ ṣaṭkaṁ nirvikalpasvabhāvaṁ vikalpācchādakaṁ ṣaṭtvaṁ cāsya svarūpeṇaikā tuṭirācchādanīye ca vikalpe pañcarūpatvamunmimiṣā unmiṣattā sā ceyaṁ sphuṭakriyārūpatvāttuṭidvayātmikā - Spandanasyaikakṣaṇarūpatvābhāvādunmiṣitatā svakāryakartṛtvaṁ cetyevamācchādanīyavikalpapāñcavidhyātsvarūpācca ṣaṭ kṣaṇā nirvikalpakāstato'pi nirvikalpasya dhvaṁsamānatā dhvaṁso vikalpasyonmimiṣā unmiṣattā tuṭidvayātmikonmiṣitatā ceti ṣaṭ tuṭayaḥ| Svakāryakartṛtā tu grāhakarūpatetyuktaṁ na sā bhūyo gaṇyata ityevaṁ vivekadhanā gurūpadeśānuśīlinaḥ sarvatra pāñcadaśyaṁ pravibhāgena viviñcate| Vikalpanyūnatve tu tuṭinyūnatā sukhādisaṁvittāviva yāvadavikalpataiva| Lokāstu vikalpaviśrāntyā tāmahantāmayīmahantācchāditedambhāvavikalpaprasarāṁ nirvikalpāṁ vimarśabhuvamaprakāśitāmiva manyante - Duḥkhāvasthāṁ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata evetīyamasau sambandhe grāhyagrāhakayoḥ sāvadhānatā ityabhinavaguptaguravaḥ| Evaṁ ca pāñcadaśye sthite yāvatsphuṭedantātmano bhedasya nyūnatā tāvaddvayaṁ dvayaṁ hrasati yāvaddvituṭikaḥ śivāveśastatrādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tvādyā| Yadāha śrīkallaṭastuṭipāta ityatra pātaśabdaṁ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhetyalaṁ rahasyārahasyanena| Evaṁ mantramaheśatuṭeḥ prabhṛti tattadabhyāsāttattatsiddhiḥ| Athātraiva jāgradādyavasthā nirūpyante - Tatra vedyasya tadviṣayāyāśca saṁvido yad vaicitryamanyonyāpekṣaṁ satsāvasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṁvido na cāpi pṛthakpṛthak dve| Tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṁ tadā jāgradavasthā meye mātari māne ca| Yadā tu tatraivādhiṣṭhānarūpatayā bhānaṁ saṅkalpastadā svapnāvasthā| Yadā tu tatraivādhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṁ tadā suṣuptāvasthā| Imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṁ jāgradādibhedāccaturvidhā uktāḥ| Yadā tu tasminneva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāttaddvāreṇa pūrṇatonmukhatayā bhānaṁ tadā turyāvasthā sā ca rūpaṁ dṛśāhamityevaṁvidhamaṁśatrayamuttīrya paśyāmītyanupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṁ dadatī tadavasthātrayānugrāhakatvāttribhedā| Etadevāvasthācatuṣṭayaṁ piṇḍasthapadastharūpastharūpātītaśabdairyogino vyavaharanti prasaṅkhyānadhanāstu sarvatobhadraṁ vyāptirmahāvyāptiḥ pracaya iti śabdaiḥ| Anvarthaṁ cātra darśitaṁ tantrāloke ślokavārttike ca| Yacca sarvāntarbhūtaṁ pūrṇarūpaṁ tat turyātītaṁ sarvātītaṁ mahāpracayaṁ ca nirūpayanti| Kiñca yasya yadyadā rūpaṁ sphuṭaṁ sthiramanubandhi taj jāgrat tasyaiva tadviparyayaḥ svapno yo layākalasya bhogaḥ sarvāvedanaṁ suṣuptaṁ yo vijñānākalasya bhogo bhogyābhinnīkaraṇaṁ turyaṁ mantrādīnāṁ sa bhogo bhāvānāṁ śivābhedasturyātītaṁ sarvātītam| Tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ| Svarūpaṁ pralayākala ityādikrameṇa trayodaśabhede svarūpaṁ vijñānākalaśaktirvijñānākala ityekādaśabhede svarūpaṁ mantrāstadīśā maheśāḥ śiva iti navabhede svarūpaṁ mantreśā maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṁ maheśaśaktirmaheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṁ kriyāśaktirjñānaśaktiricchāśaktiḥ śiva iti tribhede'bhinne'pi śivatattve kriyājñānecchānandacidrūpakḷptyā prasaṅkhyānayogadhanāḥ pañcapadatvamāhuḥ||
भूम्यादौ तत्त्वजाले न हि भवति वपुस्तादृशं यत्प्रमातुः संविद्विश्रान्तिवन्ध्यं स्फुरति स बहुधा मातृभावोऽस्य यस्मात्।
Bhūmyādau tattvajāle na hi bhavati vapustādṛśaṁ yatpramātuḥ saṁvidviśrāntivandhyaṁ sphurati sa bahudhā mātṛbhāvo'sya yasmāt|
तेनास्मिन्वेद्यजाले क्रमगतकलनां निर्विकल्पामहन्तास्वातन्त्र्यामर्शसारां भुवमधिवसत प्राप्नुत स्वात्मसत्ताम्॥
Tenāsminvedyajāle kramagatakalanāṁ nirvikalpāmahantāsvātantryāmarśasārāṁ bhuvamadhivasata prāpnuta svātmasattām||
Суть Тантры
Девятая Глава
Сейчас описывается разделение по категориям|
| И в Писаниях Шайвизма Трики было полностью сформулировано семикратное (разделение на категории) (saptadhā) Высшим Владыкой |
| В этом — семикратном разделении — (tatra) (имеется) семь владык Śakti: “Śiva-s, Mantramaheśvara-s, или Mantramaheśa-s, Mantreśvara-s, или Mantreśa-s, Mantra-s, Vijñānākala-s, или Vijñānakevala-s, Pralayākala-s (и) Sakala-s” |
| Они — те владыки Śakti — (также имеют) (eṣām) семь (sapta eva) śakti-s, или сил. Из-за этого разделения — на семь владык Śakti и их семь śakti-s, или сил — (tad-bhedāt) (все таттвы), начиная с элемента Земли — категории 36 — и заканчивая категорией Prakṛti — таттвой 13 — (pṛthivī-ādi-pradhāna-tattva-antam), содержат 14 разделений — 7 владык Śakti + их 7 śakti, или сил — (caturdaśabhiḥ bhedaiḥ) одно за другим — категорию за категорией, т.е. каждая категория может быть разделена на 14 — (pratyekam), (в то время как) сущностная природа (является) пятнадцатой |
| Там сущностная природа, покоящаяся в самой себе, пригодна для объективности. (Это можно осознать только) благодаря Милости Aparā. То, что является вместилищем покоя в познающих — т.е. в субъектах —, в которых преобладает Śakti, (является) её (tasya eva) формой/природой, относящейся к Śakti; (это может быть осознано только) благодаря Милости досточтимой Parāparā |
| А это — а именно, её форма/природа, относящаяся к Śakti — (tad) является семикратным, поскольку число — букв. размер или величина — (tāvattvāt) śakti-s, или сил (равно семи) |
| Однако, когда форма/природа Владыки Śakti становится преобладающей, (тогда это уже является) формой/природой Śiva —кто есть Владыка Śakti—, которая — т.е. форма/природа — (yad) покоится в группе познающих; (это можно осознать только) благодаря Милости почтенной Parā. “Она — а именно, форма/природа Śiva — (tad) также семикратна, поскольку сказано, что число — букв. размер, или величина — познающих —начинающееся с Śiva и заканчивающееся в Sakala— равно (семи) (pramātṝṇām śivāt prabhṛti sakala-antānām tāvatām uktatvāt) |
| Там разделение на познающих происходит только из-за разделения на śakti-s, или силы. И для прояснения оно — т.е. разделение на познающих — (saḥ) описывается в порядке Sakala и т.д.. Там сила Sakala состоит из Vidyā и Kalā — категорий 8 и 7 — (vidyā-kale). (Почему?) Потому что силы, заключённые в Силах Восприятия и Силах Действия — категориях с 17 по 26 —, являются различными аспектами (двух категорий) — т.е. Vidyā и Kalā — (tad-viśeṣa-rūpatvāt buddhi-karma-akṣa-śaktīnām). Но в случае Pralayākala те две (силы — т.е. Vidyā и Kalā —) (te) неявные, поскольку нет объекта |
| В случае Vijñānākala те две (силы — т.е. Vidyā и Kalā —) (te eva) почти исчезают. В случае Mantra Śuddhavidyā — Чистое Знание — (śuddha-vidyā) (всё ещё) пробуждается, поскольку Она — Śuddhavidyā — сопровождается остаточными отпечатками от тех (двух сил — Vidyā и Kalā —) (tad-saṁskāra-sacivā) |
| В случае Mantreśa, или Mantreśvara Она — т.е. Śuddhavidyā — (sā eva), лишённая тех остаточных отпечатков, (является) хорошо пробуждённой |
| В случае Mantramaheśvara, или Mantramaheśa Она — Śuddhavidyā — (sā eva) желает принять форму Силы Воли —сущностью которой является Абсолютная Свобода— |
| В случае Śiva — Высшего Познающего — (śivasya) (Она — Śuddhavidyā —), чья природа — Воля, является явной Абсолютной Свободой. Здесь заканчиваются семь основных разделений śakti-s, или сил |
| А разделение на познающих, которые являются владыками Śakti, производится ими (— а именно, теми семью śakti-s, или силами —), окрашивая (их — т.е. семь познающих —) (tad-uparāga-kṛtaḥ) — (Почему?) Потому что разделение инструментов заканчивается разделением агентов. (Почему так?) Потому что только Śakti, которая неотделима (от Śiva), может быть сделана инструментом (и) ничем иным — (В противном случае,) может случиться возвращение в бесконечность и т.д. |
| По сути, тем не менее, (имеется) только один Познающий, пребывающий в Блаженстве Абсолютной Свободы Сознания. Там, когда элемент земли считается покоящимся только в своей собственной сущностной природе, только тогда сияет его сущностная природа; (например,) “Я знаю, что видели глаза Caitra, (Я знаю), что было известно Caitra (caitra-viditam… iti)”. Там действительно сияет другая природа, которая является результатом силы Sakala, (и) которая является следствием природы владыки силы Sakala — т.е. “Я знаю синий цвет”, и “Я знаю синий цвет, известный Caitra” —. То, что должно быть упомянуто, (является) таковым даже вплоть до Śiva, (и это возникает) из-за существования необычной концепции: “Я знаю вселенную, которая пребывает в — или “которая зависит” — Śiva и Śakti и которая покоится в сущностной природе Śiva” |
| Сомнение — или “возражение” — (nanu): Если в случае положительной сущности — сущности, которая существует — (bhāvasya) (имеется) познаваемость — т.е. состояние быть познанным, или познаваемым — (vedyatā) как его собственная форма, тогда (существует) познаваемость в отношении каждого — т.е. если позитивная сущность обладает свойством познаваемости или воспринимаемости, то она должна быть познаваемой всеми —. (Поскольку) даже познаваемость (также является) познаваемым, был бы регресс до бесконечности. A (ca… ca) из-за этого (регресса до бесконечности) (tayā… tayā) (было бы) полное проявление (и в то же время) тёмная спячка в случае вселенной. (Почему? Потому что) существующая познаваемость и отсутствие познаваемости (одновременно) (vedyatva-avedyatve) (является) ошибкой, или дефектом, (известном как) “ассоциация с противоположным качеством”. В отношении этого сказано: (Касательно положительной сущности,) которая не является своей собственной формой, поскольку (её) природа была упомянута отдельно. Что это тогда? Она, несомненно, (является) (khalu) той природой, которая (пребывает) в силе познающего и в (самом) познающем, (и) которая является вместилищем покоя. Она (—) самосветящаяся и явная сама по себе; она сияет, но не (na tu) по отношению к чему-то. Таким образом, (группа из трёх ошибок, или дефектов) “познаваемого всеми, регресса до бесконечности и ассоциации с противоположным качеством” была полностью отброшена |
| Эта её — положительной сущности — (tasya) природа (остаётся) единственной (ekam eva), даже если она должна быть познана бесконечным (числом) познающих, поскольку они — такие познающие — являются единым проявлением. В этом смысле, нет никакого препятствия для восприятия — или познания — и умозаключения со стороны познающего. И эта её — т.е. положительной сущности — (tasya) природа реальна, потому что она может выполнять объективную деятельность. Например, увидев прекрасную женщину, на которую смотрят другие, человек начинает ревновать её. Воспринимая глиняный горшок, (придуманный) для (переживания) покоя — когда этот глиняный горшок используется в ритуалах — (viśrānti-kumbham) в качестве сущностной природы Śiva, человек получает погружение (в такую природу) (samāviśati); воспринимая объект, в котором покоится целая группа бесчисленных объектов — т.е. все они поглощены этим объектом — (samasta-ananta-pramātṛ-viśrāntam), человек наполняется, подобно созерцанию танцовщицы. (Или,) например, природа синего цвета, которая покоится в познающем благодаря возникновению Самосветящегося Сознания — Так природа пятнадцати начинается в элементе земли — категории 36 — (pṛthivyāḥ prabhṛti) (и) заканчивается в категории Prakṛti — таттве 13 — (pradhāna-tattva-paryantam) |
| (Почему так?) Потому что Sakala является познающим — т.е. познающим субъектом —, в котором kañcuka-s, или оболочки, такие как Rāga — категория 9 — и пр. являются важными (tāvati udrikta-rāga-ādi-kañcukasya sakalasya pramātṛtvāt). Эта совокупность пятнадцати поэтому приписывается даже Sakala (sakalasya api evam), так как он также является познаваемым в определённой степени |
| Это было подробно исследовано в Tantrāloka |
| От Puruṣa — категории 12 — (puṁsaḥ prabhṛti) вплоть до категории Kalā — таттвы 7 — (kalā-tattva-antam) (всё) тринадцатикратно — т.е. всё разделено на тринадцать частей — (trayodaśadhā) — (Почему? Потому что) там два разделения на владыку śakti и его śakti исчезают, поскольку Sakala не ассоциируется со знанием, (известным как) субъективность (sakalasya… pramātṛtā-ayogena), — а именно, 15 - 2 = 13 = 6 + 6 + 1 —. А поэтому(существует) только сущностная природа Sakala. Когда имеется (только) сущностная природа Pralayākala (и число) познающих равно пяти, (число) разделений (равно) одиннадцати — а именно, 13 - 2 = 11 = 5 + 5 + 1 — |
| Когда имеется (только) сущностная природа Vijñānākala (и число) познающих равняется четырём, (число) разделений (равно) девяти — а именно, 11 - 2 = 9 = 4 + 4 + 1 — |
| Когда существует (только) сущностная природа Mantra (и число) познающих равно трём, (число разделений —) семь — а именно, 9 - 2 = 7 = 3 + 3 + 1 — |
| Когда имеется (только) сущностная природа Mantreśvara, или Mantreśa (и число) познающих равно двум, (число разделений равняется) пяти — а именно, 7 - 2 = 5 = 2 + 2 + 1 — |
| Когда имеется (только) сущностная природа Mantramaheśvara, или Mantramaheśa (и число) познающих — только Господь, (число разделений равняется) трём из-за части Śakti и Её Владыки — а именно, 5 - 2 = 3 = 1 + 1 + 1 — |
| Однако в случае Śiva —наполненного Абсолютной Свободой единого Сознания, являющегося (Высшим) Светом (prakāśa-eka-cit-svātantrya-nirbharasya)— отсутствует разделение из-за (Его) тотальной Полноты и Совершенства |
| Таким образом, это ayam) разделение на категории, которое описано в (Писании) под названием Parameśvarānuttaranaya — букв. “Учение об Anuttara, Всевышнем Владыке”, некоторые авторы утверждают, что это Писание есть не что иное, как сама Mālinīvijayatantra — (parama-īśvara-anuttara-naya-eka-ākhye), порождает многообразие делений на миры. (Почему это было установлено?) Потому что сказано, что разница в природе ада, рая и мира Rudra, огромна, хотя они, состоящие из элемента земли, подобны |
| И здесь тот, кто очень заинтересован в знании промежуточных делений, взаимном вычислении делений, должен прибегнуть к Tantrāloka |
| Таким образом, даже путём (использования) одного единственного глиняного горшка и т.д. (eka-eka-ghaṭa-ādi-anusāreṇa) разделение на категории, такие как земля и т.д., было определено и описано |
| Сейчас, касательно всей категории земли — таттвы 36 — (pṛthivī-tattvam), природа которой — это познающий и познаваемое, объясняется (следующее) (nirūpyate): “Свет (есть) Śiva, который един с категорией земли” |
| Как (установлено в) Veda-s: “Эта сама земля (является) Brahma (brahma iti)” |
| Mantramaheśvara, или Mantramaheśa земли побуждает тех, кто наделён сверхъестественными силами, связанными с землёй. Тот, кого побуждают (таким образом) (preryaḥ), (является) Mantreśvara, или Mantreśa земли. Mantra (— это) его — Mantreśvara, или Mantreśa — (tasya eva) vācaka, или значимое слово — т.е. обозначающее — (vācakaḥ), формой которого является эгоизм. Vijñānākala земли (— это) тот, кто методом Śivavidyā — букв. через Знание Śiva — вышел за пределы pāśavavidyā — знания paśu-s, или существ в рабстве — в Sāṅkhya и т.д. (sāṅkhya-ādi-pāśava-vidyā-uttīrṇa-śiva-vidyā-krameṇa), (но) кто, (даже) практикуя Йогу земли, не достиг (ещё) перманентного/устойчивого состояния |
| (Однако тот, кто) практиковал Йогу земли методом pāśavavidyā — знание paśu-s, или существ в рабстве — (pāśava-vidyā-krameṇa), (становится) Pralayākala, или Pralayakevala земли в конце Кальпы или в момент смерти |
| В глубоком сне происходит действительно появление разнообразных снов (citrasya svapnasya) в силу погружения в категории. Но тот, кто принимает ошибочную концепцию о (бытии) земли, (является) Sakala земли |
| Даже здесь — т.е. в состоянии Sakala земли — (atra) (существует) состояние четырнадцати из-за преобладания и подчинения Śakti. Поэтому (имеются) разделения в категории земли, когда она приняла субъективность. Сущностная природа (является), безусловно, “чистым познаваемым — объектом — (prameyam iti)”. Ровно повсюду — в других таттвах, или категориях — (aparatra) (происходит) таким образом |
| Сейчас (проведём) исследование разделений — пятнадцати, тринадцати и т.д. — (bheda-nirūpaṇam) в отношении того познающего, который утвердился в жизненной энергии — т.е. утверждение познающего в жизненной энергии посредством вышеуказанного рассуждения: “Весь этот путь пребывает в жизненной энергии” — (prāṇa-pratiṣṭhitatayā): Здесь жизненная энергия —размером в шестнадцать tuṭi-s— того, кто воспринимает синий свет, возникает в конце погружения в познаваемое — т.е. в объект — (vedya-āveśa-paryantam). Там первый tuṭi представляет собой единую неделимую форму. Второй имеет форму познающего, который становится видимым — познающий начинает проявляться — (grāhaka-ullāsa-rūpā). Но последний идентичен этому, т.е. он един с познаваемым. Однако предпоследний имеет форму познающего, который стал явным, или проявленным. Тем не менее, существует группа из двенадцати tuṭi-s — с 3ей по 14ую — (tuṭi-dvādaśakam), которая находится посередине — между 1, 2 и 15, 16 tuṭi-s — (madhye). Первая группа из шести (tuṭi-s) (ṣaṭkam) между этих промежуточных имеет природу Nirvikalpa (и) покрывает/скрывает vikalpa. А эта шестикратность (такова:) Один tuṭi — т.е. 3ий — (tuṭiḥ) (появляется) как сущностная природа. (Оставшаяся группа из) пяти (tuṭi-s) — tuṭi-s 4, 5, 6, 7 и 8 — (ca… pañca-rūpatvam) (занята) скрытой vikalpa. (Те пять tuṭi-s разделены так — Абхинавагупта не говорит этого, но это так, насколько я понимаю эту тему; Абхинавагупта должен выражаться здесь яснее, а не создавать путаницу из tuṭi-s, поскольку Tantrasāra — это объяснение в прозе сложной Tantrāloka, написанной в стихах —:) Желание открыться (и) состояние (в процессе) открытия. Эта самая (реальность) — т.е. желание открыться и состояние (в процессе) открытия — (sā ca iyam) состоит из двух tuṭi-s, поскольку имеется проявленная/явная деятельность — (Почему?) Потому что отсутствует вибрация в одном мгновении. Таким образом (определяются) (evam) “само состояние открытости и деятельность относительно его собственных объектов деятельности”. (Следовательно,) из-за пятиричной характеристики скрытой vikalpa — тех вышеупомянутых пяти tuṭi-s — (ācchādanīya-vikalpa-pāñcavidhyāt), а также из-за сущностной природы — 3его tuṭi — (sva-rūpāt), (имеется) шесть мгновений, которые производят Nirvikalpa. Даже после этого шесть tuṭi-s (заключаются в следующем — согласно моей интерпретации, Абхинавагупта имеет в виду последнюю группу из 6 tuṭi-s внутри промежуточной группы из 12, т.е. он подразумевает tuṭi-s 9, 10, 11, 12, 13 и 14, суммарно составляющих 16… надеюсь, я прав, потому что тут полная путаница —:) “В состоянии уничтожения Nirvikalpa, уничтожении vikalpa, желании открыться, состоянии (в процессе) открытия, состоящего из двух tuṭi-s, и самого состояния открытости” |
| Однако деятельность относительно его собственных объектов деятельности, упомянутая как “природа познающего”, снова не учитывается. Итак (iti evam), те, кто обладает сокровищем различения, (и) кто постоянно изучает Учения Гуру, везде различают состояние пятнадцати по отдельности — т.е. часть за частью — (pravibhāgena) |
| Но когда (число) vikalpa-s уменьшается, (число) tuṭi-s (также) уменьшается, как при переживании счастья и т.д., которое, на самом деле, заканчивается состоянием, лишённым vikalpa-s — букв. до состояния, лишённого vikalpa-s — (yāvat avikalpatā eva) |
| Тем не менее, обычные люди полагают, что посредством успокоения vikalpa-s состояние Nirvikalpa —которое идентично Aham — т.е. Я-Сознанию — (tām ahantā-mayīm) (и) которое простирается как vikalpa до Это-сти — состояния Этого —, покрытой Я-тостью (ahantā-ācchādita-idam-bhāva-vikalpa-prasarām)— должно быть стадией Vimarśa, лишённой Prakāśa. (Это) как те, кто пребывает в состоянии счастья, (не осознаёт) состояния боли. Это (состояние осознанности) (sā) сияет — т.е. становится очевидным — (prakāśate eva iti), несомненно, с сокращением (количества) vikalpa-s. Как (постулировали) Guru-s, или Абхинавагупта, это самое (состояние осознанности является) (iyam asau) внимательностью к взаимосвязи между объектом и субъектом |
| В этом смысле (evam ca), когда состояние пятнадцати устранавливается, по мере того, как дифференциация в ясной Это-сти уменьшается, она — т.е. дифференциация, начинающаяся с 16 tuṭi-s в нормальном процессе дыхания — исчезает попарно — т.е. каждый раз удаляются по два tuṭi-s — (dvayam dvayam), пока (не произойдёт) (yāvat) поглощение в Śiva —состоящее из двух tuṭi-s— — в целом, yogī начинает медитировать в состоянии Sakala, с состоянием пятнадцати (семь познающих, семь śakti-s и объект), и с нормальным процессом дыхания, продолжающимся шестнадцать tuṭi-s; затем постепенно, по мере того, как в нём начинают уменьшаться vikalpa-s, количество tuṭi-s в его дыхании попарно уменьшается, пока он не достигнет погружения в Śiva, свою собственную Самость; в это время остаются только два tuṭi-s, т.е. его дыхание становится очень коротким, на уровне корня носа… кстати, на всякий случай, если читатель отвлёкся, напоминаю, что один tuṭi — это пространство, занимаемое двумя с четвертью пальцами, сложенными рядом —. Там — в этом погружении в Śiva — (tatra) первый tuṭi наполнен всем. Второй (tuṭi) (dvitīyā), практикующийся после вхождения во всеведение и всемогущество, способен (дать) всеведение и всемогущество. Однако первый не может — Почему? Потому что всё едино — |
| Как сказал досточтимый Kallaṭa: “Tuṭipāta” — это имя второго tuṭi, где имеется достижение всеведения и всемогущества, потому что “pāta”, или “падение, уменьшение, сокращение” от первого tuṭi; так или иначе, это тайное значение термина “pāta”, которое даётся здесь —. Здесь — в этом контексте — (atra) слово “pāta” (означает) Госпожу, или Богиню, почитаемую Kālī, Mātṛsadbhāva — истинное Существо Познающего — (mātṛ-sadbhāvaḥ), Bhairava — Śiva — (bhairavaḥ) (и) Pratibhā — чистое Сознание — (pratibhā). Достаточно (iti alam) раскрытия того, что является тайным — здесь “arahasyana” — это синоним с “prakaṭīkaraṇa”, или “раскрытием” — (rahasya arahasyanena) |
| Итак, начиная с tuṭi Mantramaheśvara, или Mantramaheśa, (имеют место) различные сверхъестественные силы посредством различных практик |
| Сейчас здесь — на пути категорий и т.д., обозначенных как последовательность пятнадцати и т.д. — (atra eva) исследуются состояния бодрствования и т.д.. Там состояние (сознания) (sā avasthā) (является) многообразием —которое взаимозависимо— познаваемого — указанного как сущностная природа — (vedyasya) и сознания, относящегося к нему — к познаваемому — (tad-viṣayāyāḥ… saṁvidaḥ). Оно не является ни только познаваемым (vedyasya kevalasya), ни даже (ca api) только сознанием, ни (na ca api) обоими — т.е. познающим и сознанием — (dve), отделёнными друг от друга |
| Там, когда (имеется) проявление — т.е. что-то проявляется — (bhānam), управляемое внешним фактором, тогда (это является) состоянием бодрствования в отношении познаваемого, познающего и познания |
| Но когда (происходит) прямо здесь (tatra eva) проявление (в форме) идеи как pramāṇa, или познание — т.е. восприятие — (adhiṣṭhāna-rūpatayā), тогда (это) состояние сна со сновидениями |
| Когда, однако, (существует) прямо здесь (tatra eva) проявление только в виде семени как pramātā, или познающий, тогда (это будет) состоянием глубокого сна |
| Говорится, что каждое (из) тех трёх состояний познаваемого, познания и познающего, согласно разделению на бодрствование и т.д., является четырёхкратным |
| Однако, когда прямо здесь — в двенадцатикратном разнообразии, возникающем в результате 3-х четырёхкратных состояний познаваемого, познания и познающего — (tasmin eva) в месте покоя (всех) познающих, через ориентацию на Полноту Познающего, (фактически происходит) проявление в форме ориентации на Полноту посредством этого, тогда (это называется) состоянием Turya. И оно — а именно, состояние Turya — (sā), превосходя три части — букв. такие три части — (evaṁvidham aṁśa-trayam) “формы, глаза (и) Я (aham iti)”, (выглядит как) “Я вижу”, т.е. (состояние Turya — это) Субъективность, лишённая средств, (и) природа которой — Абсолютная Свобода. (Состояние Turya) дарует освящение состояний познающего, познания и познаваемого посредством близости, средней дистанции и удалённости. (И) оно имеет три разделения, (поскольку состояние Turya) является дарующим Милость этой группе из трёх состояний |
| Эту самую (etad eva) группу из четырёх состояний — бодрствования, сна со сновидениями, глубокого сна и Turya — (avasthā-catuṣṭayam) yogī-s различают по словам pindhastha, padastha, rūpastha и rūpātīta. Но те, кто обладает сокровищем глубокой медитации — т.е. jñānī-s — (prasaṅkhyāna-dhanāḥ), (различают их) по словам: “Sarvatobhadra, vyāpti, mahāvyāpti (и) pracaya” |
| В этом контексте (ca atra), ясные значения (этих имён состояний сознания) (anvartham) показаны — букв. показан — (darśitam) в Tantrāloka и в Ślokavārttika — т.е. в Mālinīvijayatantra — (ślokavārttike) |
| А Turyātīta — букв. за пределами Turya — (turya-atītam) (— это) та Полная/Совершенная Природа, которая находится внутри всего (и, в то же самое время,) за пределами всего. (Jñānī-s) зовут (её) (nirūpayanti) mahāpracaya |
| Кроме того, когда (имеется) форма, которая (yasya yad) очевидна/ясна, устойчива (и) хорошо связана, это (является его — человека в этом состоянии —) бодрствованием. Его (tasya eva) состояние сна со сновидениями противоположно тому. (Состояние сна со сновидениями является тем), чем наслаждается Pralayākala. Глубокий сон (— это) неосознавание всего. (Это состояние глубокого сна является тем), чем наслаждается Vijñānākala. Turya (— это) акт объединения с познаваемыми (и является) наслаждением для Mantra и т.д.. Turyātīta (— это) единство всех положительных сущностей с Śiva (и) находится за пределами всего |
| Там пять состояний — бодрствования, сна со сновидениями, глубокого сна, Turya и Turyātīta — (pañca avasthāḥ), касательно пятнадцатикратного разделения — 7 познающих, 7 сил и 1 сущностная природа — (pañcadaśa-bhede): “(1) Сущностная природа и Sakala, (2) Pralayākala, (3) Vijñānākala, (4) группа, (состоящая из) Mantra, владыки этого — Mantra — и великого владыки этого — Mantra — — т.e. Mantra, Mantreśvara/Mantreśa и Mantramaheśvara/Mantramaheśa — (mantra-tad-īśa-tad-mahā-īśa-vargaḥ 4) (и) (5) Śiva” |
| Касательно тринадцатикратного разделения, (имеется), последовательность из “сущностной природы, Pralayākala и т.д.” (sva-rūpam pralaya-akala iti-ādi-krameṇa). Что касается одиннадцатикратного разделения, (имеется) “сущностная природа, сила Vijñānākala (и) Vijñānākala”. Касательно девятикратного деления, (имеется) “сущностная природа, Mantra-s, владыки этого — Mantra — (tad-īśāḥ), великие владыки (Mantra) (mahā-īśāḥ) (и) Śiva”. Что касается семикратного разделения, (— это) “сущностная природа, владыки Mantra, великий владыка (Mantra) (mahā-īśaḥ), Śakti (и) Śiva”. Что касается пятикратного деления, (имеется) “сущностная природа, сила великого владыки (Mantra) (mahā-īśa-śaktiḥ), великий владыка (Mantra) (mahā-īśaḥ), Śakti (и) Śiva”. Касательно трёхкратного разделения, (— это) “сущностная природа, Сила Действия, Сила Знания, Сила Воли (и) Śiva”. В категории Śiva, хотя она едина — т.е. имеется единство со всем — (abhinne), те, кто обладает сокровищем глубокой медитации и Йоги — т.e. jñānī-s и yogī-s — (prasaṅkhyāna-yoga-dhanāḥ), упоминают группу из пяти состояний путём изобретения (с указанием пяти сил, а именно, Сил) Действия, Знания, Воли, Блаженства и Сознания |
“В сети категорий, начиная с элемента земли — категории 36 — (bhūmi-ādau), нет (na hi bhavati) формы — букв. такой формы — (vapus tādṛśam), которая не покоилась бы в Сознании Познающего. (Почему?) Потому что его состояние Познающего сияет и вибрирует многочисленными способами. По этой причине в этой сети познаваемых — объектов — (asmin vedyajāle) пребывайте — Повелительное наклонение для “вас” во мн. числе — (adhivasata) в состоянии, в котором ментальная деятельность постепенно сокращается, в котором отсутствует vikalpa, или мысль (и) сущностью которого является Осознание Абсолютной Свободы (Высшей) Я-тости (ahantā-svātantrya-āmarśa-sārām), (и) достигайте — Повелительное наклонение для “вас” во мн. числе — (prāpnuta) свою собственную Самость — букв. “Бытия своей собственной Самости”, или “Безупречности собственной Самости” — (sva-ātma-sattām)!”||
ПЕРЕВОД ПОЛНОСТЬЮ ЗАКОНЧЕН, НО ЕЩЁ НЕ ОТШЛИФОВАН
← Глава 8 — Tattvasvarūpaprakāśanam · Глава 10 — Kalādyadhvaprakāśanam →
Перевод с санскрита, пояснения и весь санскритский аппарат принадлежат Габриэлю Pradīpaka и перенесены с его сайта без изменений: Глава 9 — Tattvabhedaprakāśanam. За точным смыслом идите в источник.